User talk:Mansingh780852
Welcome!
[edit]Hello, Mansingh780852, and welcome to Wikipedia! Thank you for your contributions. You may have problems writing in English, though. Did you know there are Wikipedias in over 300 languages? You may like to help at a Wikipedia in your language instead. Anyway, welcome to the project, and if you need help, you can visit the Teahouse. --Ahecht (TALK
PAGE) 18:11, 4 December 2024 (UTC)
काव्यलक्षणम् *
आलङ्कारिकचक्रचूडामणिना काव्यप्रकाशकारेण ध्वनिप्रस्थापन परमाचार्येण मम्मटेन काव्यस्य प्रयोजनमादौ प्रतिपादितम् । तदनन्तरं काव्यस्योद्भवे किं कारणमिति भणितम् । सम्प्रति कारणस्य कार्यजनकत्वात् कार्यभूतस्य काव्यस्य लक्षणं लक्षयितुमाह ग्रन्थकार - मम्मटः -
"तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः क्वापि " उपर्युक्त स्वरूपस्थतत्पदेन 'काव्यं यशसे" इति कारिकास्थं काव्यं परामृश्यते "सर्वनाम्नामुत्सर्गतः पूर्वपरामर्शित्वमिति रीत्यनुरोधेन । लक्षणे द्वे दले वर्तेते । शब्दार्थौ तत् (काव्यं) इति विशेष्यदलं वर्तते तथा शब्दार्थौ इत्यस्य त्रीणि विशेषणानि वर्तन्ते - अदोषौ, सगुणौ अनलङ्कृती पुनः क्वापि इति विशेषणदलं विद्यते । अन्वयक्रमस्वित्थम् - अदोषौ सगुणौ पुनः क्वापि अनलङ्कृती शब्दार्थौ तद् काव्यम् । ग्रन्थकारेण शब्दार्थोभयोः समष्टेः काव्यत्वं ककथितम्। यतोहि - "काव्यं श्रुतं पठितं वा" इति व्यपदेश्यो दरीदृश्यते अर्थस्य श्रवणं पठने वा न सम्भवति । अतः शब्दस्य काव्यत्वं सिद्ध्यति । एवमेव "काव्यं श्रुतमर्थो न ज्ञातः इति व्यवहारेण "काव्यं बुद्धम्' इति व्यपदेशेन वा अर्थस्य काव्यत्वं सिद्धं भवति । अत एव समुदितस्य काव्यत्वं प्रतिपादितं ग्रन्थकृता ।
"अदोषौ" इति शब्दार्थावित्यस्य विशेषणम् । अस्य विशेषणवाचक पदस्य कः अभिप्राय इति जिज्ञासायां ब्रूमोsत्र - "अविद्यमानाः दोषाः ययोः तौ अदोषौ' इति । विग्रहे "नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः" इति वार्तिकेन बहुव्रीहि समासः । अदोषावित्यस्य काव्यत्वविघटका ये च्युतसंस्कारादयोऽतिप्रबल दोषाः तैः रहितौ शब्दार्थौ काव्यमित्यर्थः । श्रुतिकटुत्वादयो, दोषा यदा रसापकर्षका भवन्ति तदा ते श्रृङ्गारकरुणादौ रसे दोषाः, अन्यथा वीरबीभत्सादौ ते गुणा एव । अतः काव्यत्वविघटका ये दोषाः तद्रहितौ काव्यमिति ग्रन्थकर्तुराशयः ।
"सगुणौ" इति अनुपादाने निर्गुणेऽतिव्याप्तिः स्यात्, तन्निवारणाय "सगुणौ" इति पदं देयम् । माधुर्यौज- प्रसादाख्याः ये गुणाः तत्सहितौ इत्यभिप्रायः यद्यपिपि गुणानां रसैकनिष्ठत्वं तथापि परम्परया रसाभिव्यञ्जक- शब्दार्थनिष्ठत्वमिति भावः । " पुनः क्वापि अनलङ्कृती" इति निरलङ्कारे- अतिव्याप्तिवारणाय उपर्युक्त "पुनः क्वापि अनलङ्कृती" इति विशेषणदलम् उपादानम् । अस्य सर्वत्राडलङ्कारसहितौ क्वचित् स्फुटालङ्काररहितावपि शब्दार्थौ काव्यम् इत्यर्थः। अनलङ्कृती इत्यस्य न विद्यते अलङ्कृतिः ययोः तौ अनलङ्कृती इति रीत्या प्रथमाद्विवचने परिनिष्ठत्वम ऊरीकार्यम् इति ।
लक्षणार्थस्तु - श्रुतिकटुत्वादि काव्यत्व प्रतिबन्धक दोषरहितौ माधुर्यौजप्रसादेषु मध्येऽन्यतमेन गुणेन सहितौ सर्वत्रालङ्कारसहितौ क्वचित् स्फुटालङ्काररहितावपि शब्दार्थयुगलं काव्यपदवाच्यम् इति । स्फुटालङ्कारविरहेsपि काव्यत्वस्योदाहरणम् -
यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा- स्ते चोन्मीलितमालतीसुरभयः प्रौढ़ाः कदम्बानिलाः । सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ, रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ।। इति पद्यं ग्रन्थकृद्भिः मम्मटैः प्रतिपादितम् ।
ननु "कारणाभावेऽपि कार्योत्पत्तिकथनं
विभावनेति" विभावनालक्षणस्य घटनात् विभावनायाः स्फुटत्वं वरोपकरणादीनामनुपभुक्तत्वस्य; "कारणस्य सत्त्वेऽपि कार्याभावकथनमिति" विशेषोक्तिलक्षणस्य घटनात् विशेषोक्तिः स्फुटत्वं उपभुक्तरूपकारण सत्वेsपि अनुत्कण्ठा रूपस्य कार्यस्याभावादिति चेत् न अभावबोधक नञादिपदोपादाने एव तयोः स्फुटत्वस्य स्वीकारेण बोध्यम् अत्र अभावबोधकनजादिपदविरहात् स्फुटो न कश्चिदलङ्कारः इति ज्ञेयम् तथा विप्रलम्भ- श्रृङ्गाररसस्य स्फुटत्वात् रसवदलङ्कारः स्फुट एव । तथापि उपर्युक्तलक्षणस्वीकारे अस्य श्लोकस्य काव्यत्वम् । अलङ्कारसहितौ काव्यमित्येतावन्मात्रमुच्यते चेत् नहि काव्यत्वं न स्यात् । अत एव पुनः क्वापि अनलङ्कृती इत्युक्तम् ।