User:B.shankarsahu
प्रतिभाशालिनं मन्दितानां मन्दाधिगन्तॄणाम्
(1) प्रतिभावनृरच्छात्राः
प्रतिभावन्तश्च्छात्राः राष्ट्रस्य निधिरूपाः भवति । एते छात्राः सामान्यबालकेषु श्रेष्ठाः भवन्ति । सामान्यतया प्रतिभावन्तश्च्छात्राः बुद्धिलब्धिदृष्ट्या श्रेष्ठाः भवन्ति । टरमनसदृशाः मनोवैज्ञानिकाः न्यूनातिन्यूनं 140 बुद्धिलब्धिधारकं छात्रमेव प्रतिभावन्तं मन्यन्ते ।
(क) प्रतिभाशालिनीपदस्य प्रयोगस्तेषां बालकानां कृते क्रियते । ये हि स्वीयेभ्य आयुस्तरीयबालकेभ्यः कस्यामपि योग्यतायां श्रेष्ठाः भवन्ति , तथा चास्माकं समाजस्य क्रल्याणे विशिष्टं
योगदानं दद्युः ।
(ख) स एव भवति प्रतिभाशाली बालको यः सर्जनात्मके चिन्तने तथा च अमूर्ते तर्के श्रेष्ठो भवति, तस्य रूचीनां क्षेत्रं विसृतं भवति, स उत्कृष्टं कार्यं सम्पादयतीति । (र्कारल,
मार्टिन्स)
गुणाः प्रतिभाशालिबालकाः प्रायशः उच्चकुलेषुत्वभाः भवन्ति । तेषां गतिजन्ये विकासः शीघ्रं भवति । एते सक्रियाः भवन्ति । कठिनकार्यसम्पादने तेषां रूचिर्भवति । एतेषां प्रवृत्तिः बौद्धिककर्मष्वपि भवति । बुद्धिव्यक्तित्वप्रभृतिपरीक्षणेषु प्रतिभाशालिनः नैपुण्यं प्रदर्शयन्तः अधिकाधिकानङ्गान् प्राप्नुवन्ति । प्रतिभाशालिनो न केवलं शिक्षाक्षेत्रे एव
स्वकीयं वैदग्ध्यं प्रकटयन्ति, एते तु सङ्गीते, नृत्ये, चित्रकलायां , स्थापत्यकलायां, यन्त्रादीनां निर्माणे चालने वा, सुविस्तृतो भवति । एतेषां सामान्यज्ञानमप्युच्चस्तरीयं भवति । एतेषु सहयोग- दयालुता – परोपकारप्रभृतयो विविधाः सामाजिकगुणाः भवन्ति ।
(2) मन्दाधिगन्तृच्छात्राः
मन्दमतियुताश्छात्राः कस्यचित् शारीरिकात् मानसिकाद्वा रोगकारणात् मानसिकपरीक्षणेषु न्यूनामुपलब्धिं धारयन्ति । एतेषु हीनताग्रन्थिनां प्रादुर्भावो भवति । एतेषां
बुद्धिलब्धिः सामान्यादल्पा एव भवति । एतेषां बुद्धिलब्धेरूच्यतमा परिसीमा 75 संख्यापरिमिता एव भवति । एनामेव बुद्धिलब्धिं परिलक्ष्यैव मन्दाधिगन्तृबालकानां परिभाषाः प्रस्तुताः वर्तन्ते विद्वद्भिः । तद्यथा-
(क) मानसिकन्यूनता सामान्यदल्पा निम्नमतिः तस्याश्चोपयोगस्याभावः । (आर्मशेड) (ख) मानसिकदुर्बलतायाः तात्पर्यं स्वस्मात् स्थितिसमूहाद्वर्त्तते यस्याः वैशिष्ट्यं वर्तते अपर्याप्तं सामाजिकसमायोजनम् , अधिगमस्य न्यूना क्षमता, परिपक्वतायाः, मन्दगतिकारणात्
न्यूना बौद्धिकयोग्यता च वर्तते या तु जन्मजाता भवति , प्रारम्भाद्वा वर्तमाना भवति । (वेककील्ड)
लक्षणानि (1) मन्दाधिगन्तृबालकानां प्रमुखं लक्षणं भवति अधिगमे दौर्बल्यम् । (2) अप्रीतज्ञानस्य अथवा अधीतज्ञानस्य विस्मरणं शेघ्रमेव जायते । (3) एतेषा शब्दभण्डारः अपि परिमिताः भवति । (4) एकाग्रतायाः अभावः । (5) मौलिकतायाः अभावः । (6) कार्यसम्पादने निर्देशं वाञ्छति । (7) अमूर्तचिन्नस्य अभावः । (8) आत्ममूल्याङ्कनस्याभावः । (9) आत्मविश्वासस्य प्रेरणायाश्च अभावः । कारणानि (1) जैविककारणम् (2) आनुवंशिककारणम् (3) सामाजिक/सांस्कृतिककारणम् शिक्षणव्यवस्था (1) विशिष्ट पाठचर्या (2) विशिष्ट विद्यालयः (3) श्रेणिहीनः वर्गः (4) अध्यापकानां कृते परामर्शाः (5) अभिभावकानां कृते परामर्शाः