Jump to content

User:Arupananda biswal

From Wikipedia, the free encyclopedia

अन्तःक्रियाविश्लेषणम् - अर्थः,प्रक्रिया ,विश्लेषणं च ।

   अन्तःक्रियाविश्लेषणम् - अर्थः,प्रक्रिया ,विश्लेषणं च  ।( Meaning, procedure and analysis of interaction analysis.)
    अन्तःक्रियाविश्लेषणस्य अर्थः - (Meaning of interaction analysis.)
        शिक्षणाधिगमस्य उद्दीपनं निर्देशनं दिशाप्रदर्शनं प्रोत्साहनं च वर्त्तते । ( Teaching is the Stimulus Guardiuns, Direction and Encouragement of Learning .)
          छात्रशिक्षकयोः मध्ये कक्षायाः जायमानाः क्रियाः अन्तःक्रिया भवति । एषा अन्तक्रियाप्रक्रियाः शिक्षणामपि उच्यते । शिक्षणस्य अन्तक्रिययाः वा वस्तुनिष्ठ क्रमवद्ध वैज्ञानिकश्च निरीक्षणं भवति अन्तःक्रियाविश्लेषणं । 
          शिक्षकाणां व्यवहारस्य अङ्कने अन्तःक्रियाविश्लेषणं सहायकं भवन्ति । शिक्षकाणां भिन्न-भिन्न व्यवहारः वर्त्तते । यथा :- कठोरः, नम्रः, गम्भिरः, दयालु एतेनप्रकारेण कक्षायां शिक्षकस्य व्यवहारपद्धतिः छात्राणां व्यवहारनिर्माणे आधारः भवन्ति । शिक्षकस्य व्यवहारे वातावरणनिर्माणे प्रयत्न करोति तद्  भवति कक्षावातावरणं । एतादृशप्रविधेः प्रमुख-वैशिष्ट्यं तावत् छात्रशिक्षकयोः मध्ये च जायमानायाः अनुक्रियायाः निरीक्षणं फलैण्डर् महोदयस्य अनुसारं कक्षाशिक्षणसमये शिक्षकः आधिकायेन उपक्रमकर्त्ता छात्रः च अनुक्रियाकर्त्ता भवति । परन्तु कश्चित विशेषपरिस्तितिषु छात्रः उपक्रमकर्त्ता अपि भवति । एतादृश परिस्तितिषु शिक्षकः स्वयमेव अनुक्रियाकर्त्ता प्रश्नउत्तरदाता च भवति । एवं रित्या छात्रशिक्षकयोर्मध्ये कक्षाशिक्षणकाले शाव्दिकान्तःक्रिया सञ्जायते । 
      अन्तःक्रियाविश्लेषणस्य विकासः - (Development of Interaction analysis.)
          शिक्षकाणां व्यवहारस्य विश्लेषणे अन्तःक्रियाविश्लेषणं सहायकं भवति । शिक्षकस्य व्यवहारः कदाचित् शाव्दिकं अशाव्दिकं वा भवितुमर्हति । तेन तस्य मुल्याङ्कनं जायते यत् अयं एतादृशः शिक्षकः इति । 
            1955-60    पर्यत्तं अस्य अन्तःक्रिया विश्लेषणस्य प्रचलितं/अध्ययनं आसीत् । तत् N.A. Flander महोदयेन 1960 तमे वर्षे मिन्षोटा विश्वविद्यालये अन्तःक्रिया विश्लेषणस्य प्रथमतया विकासः कृतः ।
            अन्तःक्रियाविश्लेषणम् एका पद्धति यस्या प्रवृति स्वाध्यात्मक हेतोः कक्षां जायमानां सर्वेषां घटनानां क्रमशः अध्ययनं भवति । अस्मिन् विधौ अबधानं दातव्यं यत् अत्रविषयवस्तुनः मापनं न भवति अपि च केवलं छात्रशिक्षकयोः मध्ये जायमानाः अन्तक्रियाः अध्ययनं भवति । तेन शिक्षकस्य प्रभावस्य अङ्कनं कर्त्तुं शक्यते । वास्तविकरुपेण शिक्षणं तथा अधिगमस्य अध्ययनपद्धतेः अङ्कने अन्तःक्रियाविश्लेषणं भवति। 
            Flander महोदयेन शिक्षकस्य व्यवहारस्य विश्लेषणं कर्त्तुं अधिकः प्रयोगः कृतः एवं च अन्ते अस्य प्रयोगस्य अन्तःक्रियाविश्लेषणम् इति नामः स्थापितः । ततः आरभ्यः Flander अन्तःक्रियाविश्लेषणम् इति प्रसिद्धः ।

अन्तःक्रियाविश्लेषणस्य उद्देश्यानि - (Objectives of interaction analysis.)

           कक्षायां जायमानानां घटनानां वस्तुनिष्ठरुपेण व्यवस्थितरुपेण च निरीक्षणार्थम् अनुसृता प्रक्रिया एव अन्तःक्रियाविश्लेषणम् इति । विधिरयं कक्षायां जायमानया प्रत्येक घटना सह सम्वद्धः भवति। एतस्याः अन्तःक्रियायाः कानिचन प्रमुखोद्देश्यानि वर्त्तते । तद्यथा- 
     •	शिक्षकवैशिष्ट्यानाम् अध्ययनम् ।
     •	निरीक्षणमाध्यमे शिक्षकव्यवहाराणाम् अध्ययनम् ।
     •	अववोधनस्तरे जायमानव्यवहारप्रकृतेः अध्ययनम् ।
     •	शिक्षकस्य सामाजिके संवेगात्मके च परिवेशे अन्तःक्रियाविश्लेषणम् ।
     •	छात्रशिक्षकयोः व्यवहाराध्ययनम् ।
     •	कक्षाकार्यस्य विश्लेषणम् ।
     •	प्रशिक्षणप्रभावस्य अशाव्दिकसम्प्रेषणस्य च विश्लेषणम् ।
      अन्तःक्रियाविश्लेषणस्य मूलधारणाः - (Basic assumption of interaction analysis.)
         Flander महोदयस्य दशवर्गप्रविधीनाम् अधोलिखिताः मूलधारणाः भवन्ति । -
     •	कक्षागते शिक्षणे शाव्दिकव्यवहारस्य प्राधान्यं भवति ।
     •	शिक्षकस्य व्यवहारः वस्तुनिष्ठरुपेण जायते ।
     •	कक्षागतवातावरणनिर्माणे अन्तःक्रियाविश्लेषणं मुख्यं भवति ।
     •	अयं प्रविधिः शिक्षकस्य समुचित परिवर्तनं आनयने प्रतिपृष्टिं प्रेररणं कार्यं निर्वहन्ति ।
     •	अन्तःक्रियाविश्लेषणमाध्यमेन छात्रशिक्षकयोः मध्ये जायमानः सम्वद्धः स्नेहपूर्णं भवति ।
     .	कक्षायां प्रजातांत्रिकवातावरणं छात्रेभ्यः अधिकं फलप्रदं भवति ।
     • कक्षाशिक्षणे यद्यपि शाव्दिकव्यवहारेण शाकं अशाव्दिकव्यवहारः भवति । तथापि शाव्दिकव्यवहारस्य विश्वशनीयता अधिकं दृश्यते । अतः अयमेव व्यव्यवहार सम्पूर्णव्यवहारस्य प्रतिनिधित्वं करोति ।
     •	छात्राणां अपेक्षा शिक्षकस्य प्रभाव अधिक हेतोः छात्राणां व्यवहारः शिक्षकस्य व्यवहारेण प्रभावित भवति ।
     •	शिक्षकस्य लोकतान्त्रिकदृष्टिकोणं छात्राः अधिकयेन अभिलषितः ।
     •	अधिगमप्रक्रियायां कक्षायाः वातावरणं महत्वपूर्णस्तानं निर्वहन्ति ।
   अन्तःक्रियाविश्लेषणस्य प्रक्रिया - (Procedure of interaction analysis.)
    अन्तःक्रिया विश्लेषणविधौ प्रक्रियाद्वयं भवति । तद्यथा –
        1. अङ्कनंप्रक्रिया (Encoding procedure.)
        2. अर्थापनप्रक्रिया (Decoding procedure.)

1. अङ्कनप्रक्रिया (Encoding procedure.)

      • अत्र पाठस्य निरीक्षणं न्युनातिन्यूनं विंशति निमेषपर्यन्तं क्रियते ।
      . निरीक्षकः कक्षायां शिक्षणाधारेण पाठस्य ध्वनिमुद्रण द्वारा विभिन्नाः अन्तःक्रियाणां अङ्कनं करोति ।
      . यदि एकविधा अन्तःक्रिया वहुकालपर्यन्तं तर्हिः तस्य अङकनं प्रति निमेषत्रयावधौ प्रतिमानं क्रियते ।
      • अस्यायां प्रक्रियायां निरीक्षणप्रपत्रे अङ्कितानां दर्शवर्गीणानां ज्ञानं निरीक्षकस्य अवश्यं स्यात् ।
      • कक्षायां क्षणत्रयात्मकं घटनाः अङ्कयितुं निरीक्षकः क्रियाशीलः स्यात् ।

2. अर्थापनप्रक्रिया (Decoding procedure.)

      • अङ्कनप्रक्रियया प्राप्ताअङ्कन विश्लेषस्य व्याख्या क्रियते । येन शिक्षकः व्यवहारस्य विश्लेषणम् कर्तुं शक्यते । एतस्याः प्रक्रियायाः भागद्वयं वर्त्तते ।
    1.	परिमाणात्मिका (Quantitative.)
     •	वर्गानुपातः (Category ratio.)
     •	व्यवहारानुपातः (Behaviour ratio.)
     •	परिवर्तनशीलान्तःक्रिया (Variable interaction.)
       2.	गुणात्मका (Qualitative.)
     •	प्रवाहान्तःक्रिया (Flow of interaction.)
     •	मञ्जुषाप्रवाहरेखाचित्रम् (Box flow diagram.)
     •	अन्तःक्रियाप्रतिमानम् (Interaction model.)
    फ्लैण्डरवर्यस्य अन्तःक्रियाविश्लेषणस्य वर्गिकरणप्रणालि (Flander’s category system of interaction analysis.)
      फ्लेण्डर् महोदयेन 1959 तमे वर्षे कक्षायाः शाव्दिकव्यवहाराधारितायाः एकस्याः विशिष्टपद्धतेः विकासः कृतः । तेन कक्षागतव्यवहारस्य अध्ययनार्थं शिक्षणकाले जायमानायाः शाव्दिकान्तःक्रियायाः व्यवस्तितवैज्ञानिकाध्यनार्थं सम्पूर्णशाव्दिकव्यवहाराः प्रामुख्येन त्रीभिःभागैः विभागाः सन्ति । तद्यथा—
     1.शिक्षककथनम् (Teacher’s talk.)
     2. छात्रकथनम् (Pupil’s talk.)
     3. मौनविभ्रान्तिः वा (Silence or Confusion.)

1.शिक्षककथनम् (Teacher’s talk.)

        कक्षाशिक्षणसमये शिक्षकः याः क्रियाः सम्पादयति, ताः सर्वाः अपि क्रियाः शिक्षककथनम् इति स्वीक्रियते । अत्र केवलं शाव्दिकव्यवहारः एव सम्मेल्यते । सा शिक्षककथनं सप्तभागैः व्यभाजयत् । पुनः थे अपि भागद्वयेन विभक्ताः सन्ति । तद्यथा- प्रत्यक्षवर्गः अप्रत्यक्षवर्गः चेति । प्रत्यक्षवर्गे शिक्षकः शिक्षणक्रियायां स्वीयप्रभुत्वं निक्षिपति । अप्रत्यक्षवर्गे शिक्षकः अप्रत्यक्षरुपेण शिक्षणक्रियायां अग्रेसरति ।
    प्रत्यक्षवर्गः -   
      • व्याख्यानम् ( Lecturing.)
      • निर्देशप्रदानम् (Giving direction.)
      . समालोचनम् अधिकारप्रदर्शनं च ।(Criticizing & showing authority.)
       अप्रत्यक्षवर्गः –
      . विचारस्वीकृतिः (Accepts feeling.)
      • प्रशंसाप्रोत्साहनञ्च(Praises & Encourages.)
      . स्वीकृतिः अथवा छात्रविचाराणां प्रयोगः (Accepts or uses ideas of students.)
      • प्रश्नकरणम् (Ask questions.)

2.छात्रकथनम् (Pupil’s talk.)

        कक्षायां छात्रकृतशाव्दिकव्यवहाराः क्रियाः अनुक्रियाः छात्रकथने एव अन्तर्भवन्ति । फ्लैणडर् महोदयः भागद्वये एतद् व्यभाजयत् । तत् यथा – 
      • छात्रकथनानुक्रिया (Pupil’s talk response.)
      • छात्रकथनोपक्रमः (Pupil’s talk initiation.)

3.मौनं विभ्रान्तिः वा (Silence or Confusion.)

       कक्षायां कदाचित् सर्वे छात्राः कदाचित् अध्यापको वा सम्भाषन्ते । कदाचित् कक्षायां पूर्णतया शान्तिः अपि भवति । यदा सर्वे छात्राः युगपत् कक्षायां भाषन्ते , तदा कक्षायाः अव्यवस्था सञ्जायते, येन न कश्चित् किमपि अवगन्तुं शक्नोति अथवा किञ्चित् कालपर्यन्तं कक्षाकार्यं मौनं तिष्ठति ।
     अन्तःक्रियाविश्लेषणस्य वैशिष्ट्यानि (Characteristics of interaction analysis.)
       अन्तःक्रियाविश्लेषणे फ्लेण्डर् महोदयस्य महत् योगदानं वर्त्तते । एतस्याः अन्तःक्रियायाः अधोलिखितानि वैशिष्ट्यानि भवन्ति । तत् यथा – 
       • कक्षायामेषः विधिः शिक्षकव्यवहारं वस्तुनिष्ठरुपेण निरीक्षते ।
       • अत्र प्रतिपृष्टिः व्यवस्था वर्त्तते ।
       • कक्षाशिक्षणार्थं मूल्याङ्कनस्य एषः वास्तविकः विश्वसनीयज्ञ विधिः ।
       • सूक्ष्मशिक्षणे एतस्य प्रयोगः सहायकप्रविधिरुपेण क्रियते ।
       • शिक्षणाभ्याससमये अनेन विधिना छात्राध्यपकेभ्यः अपेक्षितशिक्षणव्यवहाराणां ज्ञानं प्रदातुं शक्यते ।
       • कृत्रिमवातावरणेऽपि एतस्य प्रयोगः सफलतया कर्तुं शक्यते ।
  निष्कर्षः (Conclusion.)
         शिक्षाप्रकियायां फ्लेण्डर् महोदयस्य अन्तःक्रियाविश्लेषणम् अधिकं महत्वपूर्णं स्थानम् आवहति । कक्षायां छात्रशिक्षकयोर्मध्ये या अन्तःक्रिया जायते । सा शाव्दिकरुपेण एव सञ्जायते । अस्याम् अन्तःक्रियायां कदाचित् शिक्षकः कदाचित् छात्रश्च शाव्दिकव्यवहारं कुरुते । अतः फ्लेण्डर् महोदयः कक्षाशिक्षणस्य अन्तःक्रियादृष्ट्या शाव्दिकव्यवहारः एव प्रमुखः भवतीति प्रत्यावर्तन । शिक्षणव्यवहारस्य क्षेत्रम् अत्यन्तं विस्तृतं सदपि अन्तःक्रियात्मके दशवर्गीये क्षेत्रे तत् विभज्य शिक्षकव्यवहारमार्गे सारल्यं कल्पितम् अस्ति ।।