User:2010367abhisheksm
उपायेन शक्यं सर्वम्
[edit]कस्मिंश्चित् अरण्ये भासुरकः नाम सिंहः वसति स्म। सः अतीव शक्तिशाली। भासुरकः प्रतिदिनम् अनेकान् मृगान् विना कारणं मारयति स्म। एतेन वनस्य अन्ये मृगाः कष्टम् अनुभवन्ति स्म।
अतः एकदा ते मृगाः सम्भूय गत्वा भासुरकं प्रार्थितवन्तः- ” स्वामिन् ! विना कारणम् एवं मृगाणां मारणेन भवतः कः लाभः? एकस्य एव मृगस्य खादनेन भवतः उदरं पूर्णं भवति किल?
अतः अद्य आरभ्य भवतः आहारार्थं प्रतिदिनम् एकं मृगं वयमेव प्रेषयिष्यामः। भवान् तं मृगं खादतु। अन्यान् मृगान् न पीडयतु” इति।
तदा भासुरकः उक्तवान् – “तथैव अस्तु। परन्तु यस्मिन् दिने मम समीपं मृगः न आगमिष्यति, तस्मिन् दिने सर्वान् अपि मृगान् मारयिष्यामि एव ‘ इति।
मृगाः तत् अङ्गीकृतवन्तः। ततः आरभ्य प्रतिदिनं जातिक्रमेण एकः मृगः भासुरकस्य आहारत्वेन गच्छति स्म। भासुरकः तं खादति स्म। अन्ये मृगाः निर्भयम् अरण्ये सञ्चरन्ति स्म।
कदाचित् जातिक्रमेण केनचित् शशकेन भासुरकस्य आहाररूपेण गन्तव्यम् आपतितम्। सः शशकः दुःखेन सिंहसमीपं प्रस्थितवान्। मार्गे एकः कूपः आसीत्। कूपस्य उपरि गमनसमये शशकः स्वस्य प्रतिबिम्बं तत्र दृष्टवान्।
तदा तस्य मनसि कश्चन उपायः स्फुरितः। ‘ अहं भासुरकम् एतस्मिन् कूपे पातयिष्यामि ‘ इति चिन्तयन् सः विलम्बेन भासुरकस्य समीपं गतवान्।
“अद्य मृगः समये न आगतः” इति भासुरकः अतीव कुपितः आसीत्। तदा शशकः मन्दं मन्दं गत्वा प्रणम्य तस्य पुरतः स्थितवान्।
तं तर्जयन् भासुरकः उक्तवान्– “रे शशकाधम ! समये आगन्तव्यम् इति परिज्ञानं नास्ति वा भवतः? भवान् विलम्बं कृतवान् किल? अतः प्रथमं भवन्तं खादित्वा अनन्तरं सर्वं मृगकुलमेव नाशयिष्यामि” इति।
तदा शशकः विनयेन उक्तवान्– “ स्वामिन् ! मया अपराधः न कृतः। भवतः समीपं समये आगन्तव्यम् इत्येव अहं प्रस्थितः। परन्तु मार्गे अन्यः एकः सिंहः आसीत्।
सः मां दृष्ट्वा पृष्टवान्- ‘भवान् कुत्र गच्छति? ‘ इति। “भासुरकस्य आहारार्थं गच्छामि ‘ इति अहम् उक्तवान्। तदा सः उक्तवान् – “एतत् मम अरण्यम्। अत्र सर्वे अपि मृगाः मम आज्ञां पालयेयुः। भासुरकः कुत्र अस्ति ? सः चोरसिंहः स्यात्।
भवान् तम् अत्र आनयतु। आवयोः मध्ये युद्धं भवतु। युद्धे यः जयति सः एव भवन्तं खादतु’ इति। तस्य सूचनानुसारम् अहम् अत्र आगतवान्। अतः एव विलम्बः जातः” इति।
“एवम् !! तर्हि तं सिंहम् इदानीम् एव मारयामि। सः कुत्र अस्ति? प्रदर्शयतु” इति भासुरकः उक्तवान्। शशकः तं कूपसमीपं नीतवान्, कूपं प्रदर्शितवान् च।
भासुरकः तत्र जले स्वस्य प्रतिबिम्बं दृष्टवान् । क्रोधेन गर्जनं कृतवान्। कूपतः इतोऽपि उच्चैः प्रतिध्वनिः आगतः। भासुरकः तं प्रतिबिम्बमेव स्वस्य प्रतिस्पर्धिनं मत्वा तं मारयितुं तस्य उपरि आक्रमणं कृतवान्। कूपमध्ये पतितः सः जले निमग्नः मृतः च।