Jump to content

User:राम प्रकाश पाण्डेय

From Wikipedia, the free encyclopedia

पारंपरिकधारायां विविधस्तरेषु संस्कृतशिक्षणस्योद्देश्यानि

परम्परागतविधिरप्युच्यते।

एषा विधिः द्विधा विभज्यते,

प्रथमा पाठशालापद्धतिः

द्वितीया व्याकरण पद्धतिश्चेति।

पाठशाला पद्धतिःप्राचीन भारतीय शिक्षा पद्धतेः

प्रतिनिधिः अस्ति।

आश्रमेषु, गुरुकुलेषु, मठेषु च अनया पद्धत्या

संस्कृतम् अध्याप्य मानासीत्।

गुरूणां, आचार्याणां च शैक्षिक क्षेत्रे प्रमुखं स्थानम् आसीत्।

तदानीं चतुर्वर्गस्यावधारणा प्रचलिता आसीत्, मोक्ष

प्राप्तिरेव शिक्षायाः प्रमुखं उद्देश्यमासीत्।

अयं विधिः शिक्षणस्य स्थाने मानवस्य जीवनशैल्याः

उपरि बलं दीयते।

अतिप्राचीनं हि वर्तते संस्कृतसाहित्यम्।

अस्य शास्त्रस्य अध्ययनम् अध्यापनम् अपि प्राचीनकालादेवासीत्

प्रचलितम्।

भारते वैदिककालांदाराभ्य संस्कृतशिक्षणस्य काचित् पद्धतिः

प्रचलिता वरीवर्ति।

आङ्ग्लयानां शासनकाले पाश्चात्यशिक्षणप्रणाली भारते अपि

प्रवर्तिता अभवत्।

ततः परं मनोविज्ञानस्य प्रभावेण शिक्षणे बहुविधं परिवर्तनं

जातम्।

स्तरानुसारं संस्कृतशिक्षणस्य उद्देश्यानि

आधुनिककाले संस्कृतशिक्षणं द्विधा प्रचलति

1.पाठशाला पद्धत्यनुसारम्

2.विद्यालयकलालय पद्धत्यनुसारम् च।

पाठशालापद्धत्यनुसारं संस्कृतशिक्षणस्योद्देश्यानि

प्रारम्भिकस्तरः (प्रथमा)

1. सरलसंस्कृतं ज्ञातुं क्षमता।

2. सरलसंस्कृतेन भाषणस्य क्षमता।

3. संस्कृतात् मातृभाषया, मातृभाषायाःसंस्कृतेन च अनुवादं कर्तुं क्षमता।

4. सरल श्लोकानामनुवादस्य,व्याख्यानस्य च क्षमता।

5. अलङ्काराणां, वृत्तानाञ्च सामान्यज्ञानम्।

6. शब्दरूपाणां, धातुरूपाणां, सन्धिसमासकारककृत्तद्धितादीनां व्याकरणज्ञानम्।

माध्यमिकस्तरः (पूर्वमध्यमा, उत्तरमध्यमा)

1.मातृभाषातः संस्कृतेन, संस्कृतात् मातृ भाषया च अनुवादस्य पूर्णक्षमता।

2. गद्य भागानामर्थावगमनस्य क्षमता।

3. पद्यकाव्यानामर्थावगमनस्य क्षमता।

4.संस्कृतभाषायां भाषणस्य, लेखनस्य च क्षमता।

5.व्याकरणप्रक्रियायाः ज्ञानम्

6. अलङ्काराणां,वृत्तानां च ज्ञानम्।

7. संस्कृतेन पात्राणां, निबन्धनानाञ्च लेखनस्य क्षमता।

8. पद्यानां रचनायाः क्षमता।

उच्चस्तरः (शास्त्री, आचार्यः)

1. संस्कृतेनगद्यपद्यरचनायां क्षमता।

2. संस्कृतेन विस्तृतव्याख्यानस्य क्षमता।

3. मौखिकरूपेण, लिखितरूपेण च विचाराभिव्यक्तेः पूर्णक्षमता।

4. संस्कृतग्रन्थानां विमर्षणे, समीक्षणे,टीकाटिप्पणीकरणे च पूर्ण क्षमता।

5. संस्कृतेन दीर्घानुच्छेदानां सारांशलेखनस्य क्षमता।

6. शास्त्रार्थकरणे क्षमता।

7. संस्कृतभाषायां पूर्णपाण्डित्यम्।

8. अनुसन्धानकार्ये क्षमता।

पारंपारिक धारायां विविधस्तरेषु संस्कृतशिक्षणस्यो द्देश्यानि