User:ज्ञानगङ्गा
श्रीनारायणगुरुदेवः कैरल्यां गैर्वाण्याञ्च स्तोत्राणि गीतानि च व्यरचयत् । तेष्वन्यतमं अतिविश्रुतं कुण्डलिनीगीतम् । दैवशतकम्, अद्वैतदीपिका, जननीनवरत्नमञ्जरी, आत्मोपदेशशतकम्, दर्शनमाला, मुनिचर्यापञ्चकम्, ब्रह्मविद्यापञ्चकम् इत्यादयश्च मुख्याः अस्य कृतयः । मलयाळपञ्चाङ्गानुगुणं श्रीनारायणगुरुः कोल्लवर्षं १०३० वर्षस्य सिंहमासस्य शतभिषानक्षत्रे अजायत इति स्थलीयानां विश्वासः । एतद्दिनं क्रिस्तीयदिनदर्शिकानुगुणां २८.०८.१९५४ इति निश्चितं भावति । किन्तु केचन क्रि.श. १८५४ तमवर्षे इति केचन वदन्ति । क्रि.श. १९५५ तमवर्षस्य अगष्टमासस्य २८ तमे दिने इति । इल्युस्ट्रेड् वीक्ली इति पत्रिकायां प्रकासितम् । मलयाळं भाषायाः ज्येष्ठपण्डितः कश्चित् वदति क्रि.श. १८५६ तमवर्षे एव इति । केरळराज्यस्य तीय्य इति कुलस्य मदन् आसान्, कुट्टि अम्माळ् इति दम्पत्योः पुत्रः नारायणः । तदा केरळराज्ये नैकाः जातयः नैकानि मतानि आसन् । उन्नतजातिः नीचजातिः अस्पृश्यता इत्यादीनि सामाजिकानिष्टानि सर्वत्र जनान् पीडयन्ति स्म । तस्मिन् कालखण्डे एषः नारायणः अस्य समूलं विनाशाय शपथं कृतवान् । भगवतः नाम्नि प्राणिहत्या विरोधितवान् । सामाजिक विरोधाभासान् नियन्त्रितुम् अनेकानि अन्दोलनानि कृतवान् । समाजस्य नीचजातीयजननां मन्दिरप्रवेशनिषेधं विरुध्य आन्दोलनं विप्लवं वा न कृतवान् । किन्तु नूतनदेवालयान् निर्मितवान् यत्र सर्वेषां प्रवेशावकाशः कल्पितः । आकेरळं ६०सङ्ख्याधिकानि मन्दिराणि अस्थापयत् ।केरळराज्ये जातिमतभेदः पराकाष्टतां गते काले नारायणगुरुः इति दार्शनिकः समाजसुधारकः उदीत्य समाजस्य तारमम्यं न्यूनीकर्तुं स्वजीवनं व्यतीतवान् । अनेन प्रतिपादितं तत्त्वं तु जगति एका एव जतिः एकम् एव मतम् एकः एव देवः इति । एषः संस्कृतभाषायाम् अपि पण्डितः आसीत् । केरळले समाजे अस्पृश्यता इति सामाजिकानर्थस्य परिहारं स्वस्य विशेषशैल्या दृष्टवान् । देशसेवा एव ईशसेवा इति उपदेशं दत्तवान् । अस्य योजनायां प्रथमतया प्रकल्पः लिङ्गप्रतिष्ठापनम् । क्रि.श. १८८८ तमे वर्षे अवीपुरम् इति प्रदेशे लिङ्गप्रतिष्ठापनम् अभवत् । क्रि.श. १९२१तमे वर्षे अन्यदेकं नूतनविधानं समाजे आनीतवान् । समाजस्य सर्वे बान्धवाः एकत्र मिलित्वा सहभोजनम् । अस्पृश्यान् पश्चवर्तिवर्गं सङ्घटय्य परोपकारः एव स्वस्य जीवनध्येयः इति प्रदर्शितवान् । केचन मतान्तरम् एव परिहारः इति अवदन् किन्तु नारायणः गुरुः एतत् नाङ्गीकृतवान् । अल्वायी इति स्थाने क्रि.श. १९२४तमवर्षस्य फेब्रवरिमासे दिनद्वयस्य सर्वमतसम्मेलनम् आयोजितवान् । ब्रह्मविद्यालयः इति संस्थाम् आरभ्य तत्र सर्वधर्ममतानां विषये अध्ययनस्य अवकाशः परिकल्पनीयः इति उत्कटेच्छा आसीत् । किन्तु अस्य जीवितावधौ सा साकारा नाभवत् । गुरोः कालनन्तरं शिष्याः अनुयानिनः च तस्य स्वप्नं साकारम् अकुर्वन् । विश्वस्य विविधदेशानां पर्यटन् कृत्वा विश्वमानवतत्त्वं चाबोधयत् अपारम् अनुभवं च आत्मसात् कृतवान् च । अनेकैः संन्यासिभिः महर्षिभिः च निरन्तरं निकटं सम्पर्कं संरक्षितवान् । देवस्य सेवां करोति चेत् कस्यचिदेकस्य प्रगतिः, किन्तु देशसेवां करोति चेत् अनेकेषां माङ्गल्यं भवति । अतः देशसेवा एव ईशसेवा एतयोः समन्वयः एवजीवनम् इति एतादृश्यः अस्य सदुक्तयः अद्यापि अनुसरणयोग्यानि सन्ति ।